भाषा

ENहिગુ
ग्रंथ पाठ

अथर्ववेद · अध्याय 3.1

3.1.1

अग्निर्नः शत्रून् प्रत्येतु विद्वान् प्रतिदहन्न् अभिशस्तिमरातिम् ।
स सेनां मोहयतु परेषां निर्हस्तांश्च कृणवज्जातवेदाः

3.1.2

यूयमुग्रा मरुत ईदृशे स्थाभि प्रेत मृणत सहध्वम् ।
अमीमृणन् वसवो नाथिता इमे अग्निर्ह्येषां दूतः प्रत्येतु विद्वान्

3.1.3

अमित्रसेनां मघवन्न् अस्मान् छत्रूयतीमभि ।
युवं तामिन्द्र वृत्रहन्न् अग्निश्च दहतं प्रति

3.1.4

प्रसूत इन्द्र प्रवता हरिभ्यां प्र ते वज्रः प्रमृणन्न् एतु शत्रून् ।
जहि प्रतीचो अनूचः पराचो विष्वक्सत्यं कृणुहि चित्तमेषाम्

3.1.5

इन्द्र सेनां मोहयामित्राणाम् ।
अग्नेर्वातस्य ध्राज्या तान् विषूचो वि नाशय

3.1.6

इन्द्रः सेनां मोहयतु मरुतो घ्नन्त्वोजसा ।
चक्षूंस्यग्निरा दत्तां पुनरेतु पराजिता

मूल पाठ: atharvavedaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc