भाषा

ENहिગુ
ग्रंथ पाठ

अथर्ववेद · अध्याय 20.93

20.93.1

उत्त्वा मन्दन्तु स्तोमाः कृणुष्व राधो अद्रिवः ।
अव ब्रह्मद्विषो जहि

20.93.2

पदा पणींरराधसो नि बाधस्व महामसि ।
नहि त्वा कश्चन प्रति

20.93.3

त्वमीशिषे सुतानामिन्द्र त्वमसुतानाम् ।
त्वं राजा जनानाम्

20.93.4

ईङ्खयन्तीरपस्युव इन्द्रं जातमुपासते ।
भेजानासः सुवीर्यम्

20.93.5

त्वमिन्द्र बलादधि सहसो जात ओजसः ।
त्वं वृषन् वृषेदसि

20.93.6

त्वमिन्द्रासि वृत्रहा व्यन्तरिक्षमतिरः ।
उद्द्यामस्तभ्ना ओजसा

20.93.7

त्वमिन्द्र सजोषसमर्कं बिभर्षि बाह्वोः ।
वज्रं शिशान ओजसा

20.93.8

त्वमिन्द्राभिभुरसि विश्वा जातान्योजसा ।
स विश्वा भुव आभवः

मूल पाठ: atharvavedaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc