भाषा

ENहिગુ
ग्रंथ पाठ

अथर्ववेद · अध्याय 20.90

20.90.1

यो अद्रिभित्प्रथमजा ऋतावा बृहस्पतिराङ्गिरसो हविष्मान् ।
द्विबर्हज्मा प्राघर्मसत्पिता न आ रोदसी वृषभो रोरवीति

20.90.2

जनाय चिद्य ईवते उ लोकं बृहस्पतिर्देवहूतौ चकार ।
घ्नन् वृत्राणि वि पुरो दर्दरीति जयं छत्रूंरमित्रान् पृत्सु साहन्

20.90.3

बृहस्पतिः समजयद्वसूनि महो व्रजान् गोमते देव एषः ।
अपः सिषासन्त्स्वरप्रतीतो बृहस्पतिर्हन्त्यमित्रमर्कैः

मूल पाठ: atharvavedaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc