ग्रंथ पाठ
अथर्ववेद · अध्याय 20.61
20.61.1
तं ते मदं गृणीमसि वृषणं पृत्सु सासहिम् ।
उ लोककृत्नुमद्रिवो हरिश्रियम्
20.61.2
येन ज्योतीम्ष्यायवे मनवे च विवेदिथ ।
मन्दानो अस्य बर्हिषो वि राजसि
20.61.3
तदद्या चित्त उक्थिनोऽनु ष्टुवन्ति पूर्वथा ।
वृषपत्नीरपो जया दिवेदिवे
20.61.4
तं वभि प्र गायत पुरुहूतं पुरुष्टुतम् ।
इन्द्रं गीर्भिस्तविषमा विवासत
20.61.5
यस्य द्विबर्हसो बृहत्सहो दाधार रोदसी ।
गिरींरज्रामपः स्वर्वृषत्वना
20.61.6
स राजसि पुरुष्टुतमेको वृत्राणि जिघ्नसे ।
इन्द्र जैत्रा श्रवस्य च यन्तवे
मूल पाठ: atharvavedaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0