भाषा

ENहिગુ
ग्रंथ पाठ

अथर्ववेद · अध्याय 20.55

20.55.1

तमिन्द्रं जोहवीमि मघवानमुग्रं सत्रा दधानमप्रतिष्कुतं शवांसि ।
मंहिष्ठो गीर्भिरा च यज्ञियो ववर्तद्राये नो विश्वा सुपथा कृणोतु वज्री

20.55.2

या इन्द्र भुज आभरः स्वर्वामसुरेभ्यः ।
स्तोतारमिन् मघवन्न् अस्य वर्धय ये च त्वे वृक्तबर्हिषः

20.55.3

यमिन्द्र दधिषे त्वमश्वं गां भागमव्ययम् ।
यजमाने सुन्वति दक्षिणावति तस्मिन् तं धेहि मा पणौ

मूल पाठ: atharvavedaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc