ग्रंथ पाठ
अथर्ववेद · अध्याय 20.29
20.29.1
त्वं हि स्तोमवर्धन इन्द्रास्युक्थवर्धनः ।
स्तोतॄणामुत भद्रकृत्
20.29.2
इन्द्रमित्केशिना हरी सोमपेयाय वक्षतः ।
उप यज्ञं सुराधसम्
20.29.3
अपां फेनेन नमुचेः शिर इन्द्रोदवर्तयः ।
विश्वा यदजय स्पृधः
20.29.4
मायाभिरुत्सिसृप्सत इन्द्र द्यामारुरुक्षतः ।
अव दस्यूंरधूनुथाः
20.29.5
असुन्वामिन्द्र संसदं विषूचीं व्यनाशयः ।
सोमपा उत्तरो भवन्
मूल पाठ: atharvavedaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0