भाषा

ENहिગુ
ग्रंथ पाठ

अथर्ववेद · अध्याय 20.20

20.20.1

20.20
शुष्मिन्तमं न ऊतये द्युम्निनं पाहि जागृविम् ।
इन्द्र सोमं शतक्रतो

20.20.2

इन्द्रियाणि शतक्रतो या ते जनेषु पञ्चसु ।
इन्द्र तानि त आ वृणे

20.20.3

अगन्न् इन्द्र श्रवो बृहद्द्युम्नं दधिष्व दुष्टरम् ।
उत्ते शुष्मं तिरामसि

20.20.4

अर्वावतो न आ गह्यथो शक्र परावतः ।
उ लोको यस्ते अद्रिव इन्द्रेह तत आ गहि

20.20.5

इन्द्रो अङ्गं महद्भयमभि षदप चुच्यवत्।
स हि स्थिरो विचर्षणिः

20.20.6

इन्द्रश्च मृलयाति नो न नः पश्चादघं नशत्।
भद्रं भवाति नः पुरः

20.20.7

इन्द्र आशाभ्यस्परि सर्वाभ्यो अभयं करत्।
जेता शत्रून् विचर्षणिः

मूल पाठ: atharvavedaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc