ग्रंथ पाठ
अथर्ववेद · अध्याय 20.115
20.115.1
अहमिद्धि पितुष्परि मेधामृतस्य जग्रभ ।
अहं सूर्य इवाजनि
20.115.2
अहं प्रत्नेन मन्मना गिरः शुम्भामि कण्ववत्।
येनेन्द्रः शुष्ममिद्दधे
20.115.3
ये त्वामिन्द्र न तुष्टुवुरृषयो ये च तुष्टुवुः ।
ममेद्वर्धस्व सुष्टुतः
मूल पाठ: atharvavedaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0