ग्रंथ पाठ
अथर्ववेद · अध्याय 20.110
20.110.1
इन्द्राय मदूने सुतं परि ष्टोभन्तु नो गिरः ।
अर्कमर्चन्तु कारवः
20.110.2
यस्मिन् विश्वा अधि श्रियो रणन्ति सप्त संसदः ।
इन्द्रं सुते हवामहे
20.110.3
त्रिकद्रुकेषु चेतनं देवासो यज्ञमत्नत ।
तमिद्वर्धन्तु नो गिरः
मूल पाठ: atharvavedaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0