भाषा

ENहिગુ
ग्रंथ पाठ

अथर्ववेद · अध्याय 20.108

20.108.1

त्वं न इन्द्रा भरमोजो नृम्णं शतक्रतो विचर्षणे ।
आ वीरं पृतनाषहम्

20.108.2

त्वं हि नः पिता वसो त्वं माता शतक्रतो बभूविथ ।
अधा ते सुम्नमीमहे

20.108.3

त्वां शुष्मिन् पुरुहूत वाजयन्तमुप ब्रुवे शतक्रतो ।
स नो रास्व सुवीर्यम्

मूल पाठ: atharvavedaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc