भाषा

ENहिગુ
ग्रंथ पाठ

अथर्ववेद · अध्याय 2.8

2.8.1

उदगातां भगवती विचृतौ नाम तारके ।
वि क्षेत्रियस्य मुञ्चतामधमं पाशमुत्तमम्

2.8.2

अपेयं रात्र्युच्छत्वपोच्छन्त्वभिकृत्वरीः ।
वीरुत्क्षेत्रियनाशन्यप क्षेत्रियमुच्छतु

2.8.3

बभ्रोरर्जुनकाण्डस्य यवस्य ते पलाल्या तिलस्य तिलपिञ्ज्या ।
वीरुत्क्षेत्रियनाशन्यप क्षेत्रियमुच्छतु

2.8.4

नमस्ते लाङ्गलेभ्यो नम ईषायुगेभ्यः ।
वीरुत्क्षेत्रियनाशन्यप क्षेत्रियमुच्छतु

2.8.5

नमः सनिस्रसाक्षेभ्यो नमः संदेश्येभ्यः ।
नमः क्षेत्रस्य पतये वीरुत्क्षेत्रियनाशन्यप क्षेत्रियमुच्छतु

मूल पाठ: atharvavedaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc