भाषा

ENहिગુ
ग्रंथ पाठ

अथर्ववेद · अध्याय 2.14

2.14.1

निःसालां धृष्णुं धिषणमेकवाद्यां जिघत्स्वम् ।
सर्वाश्चण्डस्य नप्त्यो नाशयामः सदान्वाः

2.14.2

निर्वो गोष्ठादजामसि निरक्षान् निरुपानशात्।
निर्वो मगुन्द्या दुहितरो गृहेभ्यश्चातयामहे

2.14.3

असौ यो अधराद्गृहस्तत्र सन्त्वराय्यः ।
तत्र सेदिर्न्युच्यतु सर्वाश्च यातुधान्यः

2.14.4

भूतपतिर्निरजत्विन्द्रश्चेतः सदान्वाः ।
गृहस्य बुध्न आसीनास्ता इन्द्रो वज्रेणाधि तिष्ठतु

2.14.5

यदि स्थ क्षेत्रियाणां यदि वा पुरुषेषिताः ।
यदि स्थ दस्युभ्यो जाता नश्यतेतः सदान्वाः

2.14.6

परि धामान्यासामाशुर्गाष्ठामिवासरम् ।
अजैषं सर्वान् आजीन् वो नश्यतेतः सदान्वाः

मूल पाठ: atharvavedaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc