भाषा

ENहिગુ
ग्रंथ पाठ

अथर्ववेद · अध्याय 19.52

19.52.1

कामस्तदग्रे समवर्तत मनसो रेतः प्रथमं यदासीत्।
स काम कामेन बृहता सयोनी रायस्पोषं यजमानाय धेहि

19.52.2

त्वं काम सहसासि प्रतिष्ठितो विभुर्विभावा सख आ सखीयते ।
त्वमुग्रः पृतनासु ससहिः सह ओजो यजमानाय धेहि

19.52.3

दूराच्चकमानाय प्रतिपाणायाक्षये ।
आस्मा अशृण्वन्न् आशाः कामेनाजनयन्त्स्वः

19.52.4

कामेन मा काम आगन् हृदयाद्धृदयं परि ।
यदमीषामदो मनस्तदैतूप मामिह

19.52.5

यत्काम कामयमाना इदं कृण्मसि ते हविः ।
तन् नः सर्वं समृध्यतामथैतस्य हविषो वीहि स्वाहा

मूल पाठ: atharvavedaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc