भाषा

ENहिગુ
ग्रंथ पाठ

अथर्ववेद · अध्याय 19.38

19.38.1

न तं यक्ष्मा अरुन्धते नैनं शपथो अश्नुते ।
यं भेषजस्य गुल्गुलोः सुरभिर्गन्धो अश्नुते

19.38.2

विष्वञ्चस्तस्माद्यक्ष्मा मृगा अश्वा इवेरते ।
यद्गुल्गुलु सैन्धवं यद्वाप्यसि समुद्रियम्

19.38.3

उभयोरग्रभं नामास्मा अरिष्टतातये

मूल पाठ: atharvavedaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc