भाषा

ENहिગુ
ग्रंथ पाठ

अथर्ववेद · अध्याय 19.16

19.16.1

असपत्नं पुरस्तात्पश्चान् नो अभयं कृतम् ।
सविता मा दक्षिणत उत्तरान् मा शचीपतिः

19.16.2

दिवो मादित्या रक्षतु भूम्या रक्षन्त्वग्नयः ।
इन्द्राग्नी रक्षतां मा पुरस्तादश्विनावभितः शर्म यच्छताम् ।
तिरश्चीन् अघ्न्या रक्षतु जातवेदा भूतकृतो मे सर्वतः सन्तु वर्म

मूल पाठ: atharvavedaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc