भाषा

ENहिગુ
ग्रंथ पाठ

अथर्ववेद · अध्याय 11.5

11.5.50

एतद्वै ब्रध्नस्य विष्टपं यदोदनः

11.5.51

ब्रध्नलोको भवति ब्रध्नस्य विष्टपि श्रयते य एवं वेद

11.5.52

एतस्माद्वा ओदनात्त्रयस्त्रिंशतं लोकान् निरमिमीत प्रजापतिः

11.5.53

तेषां प्रज्ञानाय यज्ञमसृजत

11.5.54

स य एवं विदुष उपद्रष्टा भवति प्राणं रुणद्धि

11.5.55

न च प्राणं रुणद्धि सर्वज्यानिं जीयते

11.5.56

न च सर्वज्यानिं जीयते पुरैनं जरसः प्राणो जहाति

मूल पाठ: atharvavedaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc