आश्वलायनश्रौतसूत्र · अध्याय 6
उक्थे.तु.होत्रकाणाम्.। (सोम: उक्थ्य)
एह्य्.ऊ.षु.ब्रुवाणि.त.आग्निर्.अगामि.भारतश्.चर्षणी.धृतम्.अस्तभ्नाद्.याम्.असुर.इति.तृचाव्.इन्द्रा.वरुणा.युवम्.आवाम्.राजानाव्.इन्द्रा.वरुणा.मधुमत्तमस्य.इति.याज्या.। (सोम: उक्थ्य)
वयम्.उ.त्वाम्.अपूर्व्य.यो.न.इदम्.इदम्.पुरा.इति.प्रगाथौ.सर्वाः.ककुभः.प्रमन्हिष्ठाय.उदप्रुतो.अच्छाम.इन्द्रम्.बृहस्पते.युवम्.इन्द्रश्.च.वस्व.इति.याज्या.। (सोम: उक्थ्य)
अधा.हीन्द्र.गिर्वण.इयन्त.इन्द्र.गिर्वण.क्रतुर्.जनित्री.(.ऋतुर्.जनित्री.).नू.मर्तो.भवा.मित्रः.स.वाम्.कर्मणा.इन्द्रा.विष्णू.मदपती.मदानाम्.इति.याज्या.। (सोम: उक्थ्य)
इत्य्.अन्त.उक्थ्यः.। (सोम: उक्थ्य)
अथ.षोळशी.। (सोम: सोळशिन्)
असावि.सोम.इन्द्र.त.इति.स्तोत्रिय.अनुरूपौ.। (सोम: सोळशिन्)
आ.त्वा.वहन्तु.हरय.इति.तिस्रो.गायत्र्यः.। (सोम: सोळशिन्)
उपो.षु.शृणुही.गिरः.सुसंदृशम्.त्वा.वयम्.मघवन्न्.इत्य्.एका.द्वे.च.पङ्क्ती.। (सोम: सोळशिन्)
यद्.इन्द्र.पृतना.आज्ये.अयम्.ते.अस्तु.हर्यत.इत्य्.औष्णिह.बार्हतौ.तृचौ.।.आ.धूर्ष्व्.अस्मा.इति.द्विपदा.। (सोम: सोळशिन्)
ब्रह्मन्.वीर.ब्रह्म.कृतिम्.जुषाण.इति.त्रिष्टुप्.।.एष.ब्रह्मा.य.ऋत्विय.इन्द्रो.नाम.श्रुतो.गृणे.।.विस्रुतयो.यथा.पथ.इन्द्र.त्वद्यन्ति.शतयः.। (सोम: सोळशिन्)
त्वाम्.इत्.शवसस्.पते.यन्ति.गिरो.न.सम्यत.इति.तिस्रो.द्विपदाः.।.प्र.ते.महे.विदधे.शंसिषम्.हरी.इति.तिस्रो.जगत्यः.।.त्रिकद्रुकेषु.महिषो.यवाशिरम्.प्रो.ष्व्.अस्मै.पुरोरथम्.इति.तृचाव्.अतिच्छन्दसौ.। (सोम: सोळशिन्)
पच्छः.पूर्वम्.द्वेधा.कारम्.। (सोम: सोळशिन्)
उत्तरम्.अनुष्टुब्.गायत्री.कारम्.। (सोम: सोळशिन्)
प्र.चेतन.प्र.चेतयाहि.पिब.मत्स्व.क्रतुच्छन्द.ऋतम्.बृहत्.सुम्न.आधेहि.नो.वसव्.इत्य्.अनुष्टुप्.।.प्र.प्रवस्.त्रिष्टुभम्.इषम्.अर्चतम्.प्रार्चत.यो.व्यतींर्.अफाणयद्.इतीति.तृचा.आनुष्टुभाः.। (सोम: सोळशिन्)
उत्तमस्य.उत्तमाम्.शिष्ट्वा.उत्तमाम्.निविदम्.दध्यात्.। (सोम: सोळशिन्)
लिङ्गैः.पद.अनुपूर्वम्.व्याख्यास्यामो.मत्सद्.अहिम्.वृत्रम्.अपाम्.जिन्वद्.उदार्यम्.उद्याम्.दिवि.समुद्रम्.पर्वतान्.इह.। (सोम: सोळशिन्)
उद्.यद्.ब्रध्नस्य.विष्टपम्.इति.परिधानीया.।.एवा.ह्य्.एव.एवा.हि.इन्द्रम्.।.एवा.हि.शक्रो.वशीहि.शक्र.इति.जपित्वा.।.अपाः.पूर्वेषाम्.हरिवः.सुतानाम्.इति.यजति.। (सोम: सोळशिन्)
विहृतस्य.इन्द्र.जुषस्व.प्रवह.आ.याहि.शूर.हरी.इह.।.पिबा.सुतस्य.मतिर्.नमध्वश्.चकानश्.चारुर्.मदाय.।.इन्द्र.जठरम्.नव्यम्.न.पृणस्व.मधोर्.दिवो.न.। (सोम: सोळशिन्)
अस्य.सुतस्य.स्वर्ण.उप.त्वा.मदाः.सुवोचो.अस्थुः.।.इन्द्रस्.तुराषाण्.मित्रो.न.जघान.वृत्रम्.यतिर्.न.।.बिभेद.बलम्.भृगुर्.न.ससाहे.शत्रून्.मदे.सोमस्य.। (सोम: सोळशिन्)
श्रुधी.हवम्.न.इन्द्रो.न.गिरो.जुषस्व.वजी.न.।.इन्द्र.सयुग्भिर्.दिद्युम्.नमत्स्वामदाय.महेरणाय.।.आत्मा.विशन्तु.कविर्.न.सुतास.इन्द्र.त्वष्टा.न.। (सोम: सोळशिन्)
पृणस्व.कुक्षी.सोमो.नाविड्ढि.शूर.धिया.हि.या.नः.साधुर्.न.गृध्नुर्.ऋभुर्.नास्तेव.शूरश्.चमसो.न.।.यातेव.भीमो.विष्णुर्.न.त्व्.एषः.समत्.सुक्रतुर्.न.इति.स्तोत्रिय.अनुरूपौ.। (सोम: सोळशिन्)
ऊर्ध्वम्.स्तोत्रिय.अनुरूपाभ्याम्.तद्.एव.शस्यम्.विहरेत्.। (सोम: सोळशिन्)
पादान्.व्यवधाय.अर्धर्चशः.शंसेत्.। (सोम: सोळशिन्)
पूर्वासाम्.पूर्वाणि.पदानि.। (सोम: सोळशिन्)
गायत्र्यः.पङ्क्तिभिः.। (सोम: सोळशिन्)
पङ्क्तीनाम्.तु.द्वे.द्वे.शिष्येते.ताभ्याम्.प्रणुयात्.। (सोम: सोळशिन्)
उष्णिहो.बृहतीभिर्.उष्णिहान्.तु.उत्तमान्.पादान्.द्वौ.कुर्यात्.। (सोम: सोळशिन्)
चतुर्.अक्षरम्.आद्यम्.। (सोम: सोळशिन्)
द्विपदाश्.चतुर्धा.कृत्वा.प्रथमाम्.त्रिष्टुभ.उत्तरा.जगतीभिः.। (सोम: सोळशिन्)
उत्तमायाश्.चतुर्थम्.अक्षरम्.अन्त्यम्.पूर्वस्य.आद्यम्.उत्तरस्य.। (सोम: सोळशिन्)
द्वितीय.त्तीययोस्.तृतीययोः.पादयोर्.अवसानत.उपदध्यात्.।.प्रचेतन.इति.पूर्वस्याम्.प्रचेतय.इत्य्.उत्त्तरस्याम्.। (सोम: सोळशिन्)
उत्तरास्व्.इतरान्.पादान्.षष्ठान्.कृत्वा.अनुष्टुप्.कारम्.शंसेत्.। (सोम: सोळशिन्)
ऊर्ध्वम्.स्तोत्रिय.अनुरूपाभ्याम्.आतो.विहृतः.। (सोम: सोळशिन्)
तत्र.प्रतिगर.ओथामो.दैवमदे.मदासो.दैवोम्.अथ.इति.। (सोम: सोळशिन्)
याज्याम्.जपेन.उपसृजेत्.। (सोम: सोळशिन्)
एवा.ह्य्.एवापाः.पूर्वेषाम्.हरिवः.सुतम.एवाहि.इन्द्रान्.अथो.इदम्.सवनम्.केवलम्.ते.।.एवा.हि.शक्रो.ममद्धि.सोमम्.मधुमन्तम्.इन्द्र.वशीहि.शक्रः.सप्रावृषम्.जठर.आवृषस्व.इति.। (सोम: सोळशिन्)
समानम्.अन्यत्.। (सोम: सोळशिन्)
स्तोत्रियाय.निविदे.परिधानीयाया.इत्य्.आहावः.। (सोम: सोळशिन्)
आहुतम्.षोळशि.पात्रम्.समुपहावम्.भक्षयन्ति.। (सोम: सोळशिन्)
घर्मे.च.भक्षिणः.। (सोम: सोळशिन्)
मैत्रा.वरुणस्.त्रयश्.छन्दोगाः.। (सोम: सोळशिन्)
इन्द्र.षोळशिन्न्.ओजस्विंस्.त्वम्.देवेष्व्.अस्य्.ओजस्वन्तम्.माम्.आयुष्मन्तम्.वर्चस्वन्तम्.मनुष्येषु.कुरु.।.तस्य.त.इन्द्र्.अपीतस्य.अनुष्टुप्.छन्दस.उपहूतस्य.उपहूतो.भक्षयामि.इति.भक्ष.जपः.। (सोम: सोळशिन्)
अतिरात्रे.पर्यायाणाम्.उक्तः.शस्य.उपेतो.होतुर्.अपि.यथा.होत्रकाणाम्.। (सोम: अतिरात्र: पर्यायस्)
प्रथमे.पर्याये.होतुर्.आद्याम्.वर्जयित्वा.प्रत्यृचम्.स्तोत्रिय.अनुरूपेषु.प्रथमानि.पदानि.द्विर्.उक्त्वा.अवस्यन्ति.। (सोम: अतिरात्र: पर्यायस्)
शिष्टे.समसित्वा.प्रणुवन्ति.। (सोम: अतिरात्र: पर्यायस्)
सर्वे.सर्वासाम्.मध्ये.मध्यमानि.प्रत्यादाय.ऋग्.अन्तैः.प्रणुवन्ति.। (सोम: अतिरात्र: पर्यायस्)
उत्तमान्य्.उत्तमे.। (सोम: अतिरात्र: पर्यायस्)
चतुर्.अक्षराणि.त्व्.अच्छावाकः.। (सोम: अतिरात्र: पर्यायस्)
चतुः.शस्त्राः.पर्यायाः.। (सोम: अतिरात्र: पर्यायस्)
होतुर्.आद्यम्.। (सोम: अतिरात्र: पर्यायस्)
याज्याभ्यः.पूर्वे.पर्यासाः.। (सोम: अतिरात्र: पर्यायस्)
पान्तम्.आ.वो.अन्धसो.अपाद्.उ.शिप्र्य्.अन्धसस्.त्यम्.उ.वः.सत्राहम्.इति.सूक्त.शेषो.अबिः.त्यम्.मेषम्.अध्वर्यवो.भरत.इन्द्राय.सोमम्.इति.याज्या.। (सोम: अतिरात्र: पर्यायस्)
प्र.व.इन्द्राय.मादनम्.प्रकृतान्य्.ऋजीषिणः.प्रतिश्रुताय.वो.धृषद्.इति.पञ्चदश.दिवश्.चिद्.अस्य.इति.पर्यासः.स.नो.नव्येभिर्.इति.च.अस्य.मदे.पुरु.वर्पांसि.विद्वान्.इति.याज्या.। (सोम: अतिरात्र: पर्यायस्)
वयम्.उ.त्वा.तद्.इद्.अर्था.वयम्.इन्द्र.त्वायवो.अभि.वार्त्रहत्याय.इत्य्.उत्तमाम्.उद्धरेद्.इन्द्रो.अङ्ग.महद्.भयम्.अभि.न्य्.ऊ.षु.वाचम्.अप्सु.धूतस्य.हरिवः.पिब.इह.इति.याज्या.। (सोम: अतिरात्र: पर्यायस्)
इन्द्राय.मद्वने.सुतम्.इन्द्रम्.इद्.गाथिनो.बृहद्.एन्द्र.सानसिम्.एतो.न्व्.इन्द्रम्.स्तवाम.ईशानम्.मा.नो.अस्मिन्.मघवन्न्.इन्द्र्म.पिब.तुभ्यम्.सुतो.मदाय.इति.याज्या.। (सोम: अतिरात्र: पर्यायस्)
अयम्.त.इन्द्र.सोमो.अयम्.ते.मानुषे.जन.उद्.घेद्.अभि.इत्य्.उत्तमाम्.उद्धरेद्.अहम्.भुवम्.अपाय्य्.अस्य.अन्धसो.मदाय.इति.याज्या.। (सोम: अतिरात्र: पर्यायस्)
आ.तू.न.इन्द्र.क्षुमन्तम्.आ.प्र.द्रव.परावतो.न.ह्य्.अन्यम्.बळाकरम्.इत्य्.अष्टाव्.ईङ्खयन्तीर्.अहम्.दाम्.पाता.सुतम्.इन्द्रो.अस्तु.सोमम्.हन्ता.वृत्रम्.इति.याज्या.। (सोम: अतिरात्र: पर्यायस्)
अभि.त्वा.वृषभा.सुते.अभि.प्रगोपतिम्.गिरा.आ.तू.न.इन्द्र.मदृयग्.इति.सूक्ते.अश्वावति.प्रोग्राम्.पीतिम्.वृष्ण.इयर्मि.सत्याम्.इति.याज्या.। (सोम: अतिरात्र: पर्यायस्)
इदम्.वसो.सुतम्.अन्ध.इन्द्रेहि.मत्स्य्.अन्धसः.प्र.संराजम्.उपक्रमस्व.आ.भर.धृषता.तद्.अस्मै.नव्यम्.अस्य.पिब.यस्य.जज्ञान.इन्द्र.इति.याज्या.। (सोम: अतिरात्र: पर्यायस्)
इदम्.ह्य्.अन्व्.ओजसा.महान्.इन्द्रो.य.ओजसा.समस्य.मन्यवे.विश.इति.द्वि.चत्वारिंशद्.विश्वजिते.तिष्ठा.हरी.रथ.आयुज्यमाना.इति.याज्या.। (सोम: अतिरात्र: पर्यायस्)
आ.त्व्.एता.निषीदत.आ.त्व्.आ.शत्रव्.आ.गहि.नकिर्.इन्द्र.त्वद्.उत्तर.इत्य्.उत्तमाम्.उद्धरेत्.श्रत्.ते.दधामि.इदम्.त्यत्.पात्रम्.इन्द्र.पानम्.इति.याज्या.। (सोम: अतिरात्र: पर्यायस्)
योगे.योगे.तवस्तरम्.युञ्जन्ति.ब्रध्नम्.अरुषम्.यद्.इन्द्र.अहम्.प्र.ते.मह.ऊती.शचीवस्.तव.वीर्येण.इति.याज्या.। (सोम: अतिरात्र: पर्यायस्)
इन्द्रः.सुतेषु.सोमेषु.य.इन्द्र.सोम.पातम.आ.घा.ये.अग्निम्.इन्धत.इति.सप्तदश.य.इन्द्र.चमसेष्व्.आ.सोमः.प्र.वः.सताम्.प्रो.द्रोणे.हरयः.कर्माग्मन्न्.इति.याज्या.। (सोम: अतिरात्र: पर्यायस्)
इति.पर्यायाः.। (सोम: अतिरात्र: पर्यायस्)
पर्यास.वर्जम्.गायत्राह्। (सोम: अतिरात्र: पर्यायस्)
संस्थितेष्व्.आश्विनाय.स्तुवते.। (सोम: अतिरात्र: संधि.स्तोत्र: आश्विन.शस्त्र)
शंसिष्यन्.विसंस्थित.संचरेण.निष्क्रम्य.आग्नीध्रीये.जान्व्.आच्य.आहुतीर्.जुहुयाद्.अग्निर्.अज्वी.गायत्रेण.छन्दसा.तम्.अश्याअन्तम्.अन्वारभे.तस्मै.माम्.अवतु.तस्मै.स्वाहा.। (सोम: अतिरात्र: संधि.स्तोत्र: आश्विन.शस्त्र)
उषा.अज्विनी.त्रैष्टुभेन.छन्दसा.ताम्.अश्यान्ताम्.अन्वारभे.तस्यै.माम्.अवतु.तस्य.स्वाहा.। (सोम: अतिरात्र: संधि.स्तोत्र: आश्विन.शस्त्र)
अश्विनाव्.अज्विनौ.जागतेन.छन्दसा.ताव्.अश्यान्ताव्.अन्वारभे.ताभ्याम्.माम्.अवतु.ताभ्याम्.स्वाहा.।.बण्.महान्.असि.सूर्य.इति.द्वाभ्याम्.इन्द्रम्.वो.विश्वतस्.परि.इति.च.। (सोम: अतिरात्र: संधि.स्तोत्र: आश्विन.शस्त्र)
प्राश्य.आज्य.शेषम्.अप.उपस्पृशन्न्.आचामेद्.विज्ञायते.देव.रथो.वा.एष.यद्.होता.नाक्षमद्भिः.करवाणि.इति.। (सोम: अतिरात्र: संधि.स्तोत्र: आश्विन.शस्त्र)
प्राश्य.प्रतिप्रसृप्य.पश्चात्.स्वस्य.धिष्ण्यस्य.उपविशेत्.समस्त.जङ्घ.ऊरुर्.अरत्निभ्याम्.जानुभ्याम्.च.उपस्थम्.कृत्वा.यथा.शकुनिर्.उत्पतिष्यन्.। (सोम: अतिरात्र: संधि.स्तोत्र: आश्विन.शस्त्र)
उपस्थ.कृतस्.त्व्.एव.आश्विनम्.शंसेत्.। (सोम: अतिरात्र: संधि.स्तोत्र: आश्विन.शस्त्र)
अग्निर्.होता.गृहपतिः.स.राजा.इति.प्रतिपद्.एकपातिनी.पच्छः.। (सोम: अतिरात्र: संधि.स्तोत्र: आश्विन.शस्त्र)
एतया.आग्नेयम्.गायत्रम्.उपसंतनुयात्.। (सोम: अतिरात्र: संधि.स्तोत्र: आश्विन.शस्त्र)
प्रातर्.अनुवाक.न्यायेन.तस्य.एव.समाम्नायस्य.सहस्र.अवमम्.ओदेतोः.शंसेत्.। (सोम: अतिरात्र: संधि.स्तोत्र: आश्विन.शस्त्र)
बार्हतास्.त्रयस्.तृचा.स्तोत्रियाः.प्रगाथा.वा.तान्.पुरस्ताद्.अनुदैवतम्.स्वस्य.छन्दसो.यथा.स्तुतम्.शंसेत्.। (सोम: अतिरात्र: संधि.स्तोत्र: आश्विन.शस्त्र)
येषु.वा.अन्येषु.। (सोम: अतिरात्र: संधि.स्तोत्र: आश्विन.शस्त्र)
पच्छो.द्विपदाह्। (सोम: अतिरात्र: संधि.स्तोत्र: आश्विन.शस्त्र)
उपसंतनुयाद्.एक.पदाः.। (सोम: अतिरात्र: संधि.स्तोत्र: आश्विन.शस्त्र)
ताभ्यश्.च.उत्तराः.। (सोम: अतिरात्र: संधि.स्तोत्र: आश्विन.शस्त्र)
विच्छन्दस.उद्धरेत्.। (सोम: अतिरात्र: संधि.स्तोत्र: आश्विन.शस्त्र)
अपि.वा.तन्.न्यायेन.शंसनम्.। (सोम: अतिरात्र: संधि.स्तोत्र: आश्विन.शस्त्र)
न.तु.पच्छो.अन्यास्.त्रिष्टुब्.जगतीभ्यः.। (सोम: अतिरात्र: संधि.स्तोत्र: आश्विन.शस्त्र)
पाङ्क्तेन.उदिते.सौर्याणि.प्रतिपद्यते.। (सोम: अतिरात्र: संधि.स्तोत्र: आश्विन.शस्त्र)
सूर्यो.नो.दिव.उद्.उ.त्यम्.जात.वेदसम्.इति.नव.चित्रम्.देवानाम्.नमो.मित्रस्य.इन्द्र.क्रतुम्.न.आ.भर.।.अभि.त्वा.शूर.नोनुमो.बहवः.सूर.चक्षस.इति.प्रगाथा.मही.द्यौः.पृथिवी.च.नस्.ते.हि.द्यावा.पृथिवी.विश्व.शम्भुवा.।.विश्वस्य.देवी.मृचयस्य.जन्मनो.अनया.रोषाति.न.ग्रभद्.इति.द्विपदा.। (सोम: अतिरात्र: संधि.स्तोत्र: आश्विन.शस्त्र)
बृहस्पते.अति.यद्.अर्यो.अर्हाद्.इति.परिधानीया.। (सोम: अतिरात्र: संधि.स्तोत्र: आश्विन.शस्त्र)
प्रतिपदे.परिधानीयाया.इत्य्.आहावः.। (सोम: अतिरात्र: संधि.स्तोत्र: आश्विन.शस्त्र)
बृहत्.साम.चेत्.तस्य.योनिम्.प्रगाथेषु.द्वितीयाम्.तृतीयाम्.वा.। (सोम: अतिरात्र: संधि.स्तोत्र: आश्विन.शस्त्र)
न.वा.। (सोम: अतिरात्र: संधि.स्तोत्र: आश्विन.शस्त्र)
आश्विनेन.ग्रहेण.सपुरोळाशेन.चरन्ति.। (सोम: अतिरात्र: संधि.स्तोत्र: आश्विन.शस्त्र)
इमे.सोमासस्.तिरो.अह्न्यासस्.तीव्रास्.तिष्ठन्ति.पीतये.युवाभ्याम्.।.हविष्मता.नासत्या.रथेन.आ.आतम्.उपभूषतम्.पिबध्या.इत्य्.अनुवाक्या.। (सोम: अतिरात्र: संधि.स्तोत्र: आश्विन.शस्त्र)
होता.यक्षद्.अश्विना.सोमानाम्.तिरो.अह्न्यानाम्.इति.प्रैषः.।.प्र.वाम्.अन्धांसि.मद्यान्य्.अस्थुर्.उभा.पिबतम्.अश्विना.इति.याज्ये.अध्यर्धाम्.अन्ववानम्.। (सोम: अतिरात्र: संधि.स्तोत्र: आश्विन.शस्त्र)
यद्य्.एत्तस्य.पुरोळाशस्य.स्विष्टकृता.चरेयुः.।.पुरोळा.अग्ने.पचतो.अग्ने.वृधान.आहुतम्.इति.सम्याज्ये.। (सोम: अतिरात्र: संधि.स्तोत्र: आश्विन.शस्त्र)
यदि.पर्यायान.भिव्युच्छेत्.सर्वेभ्य.एकम्.सम्भरेयुः.। (सोम: सोम.प्रायश्.चित्त)
प्रथमाद्.होता.द्वितीयान्.मैत्रावरुणो.ब्राह्मणाच्छंसी.च.उत्तमाद्.अच्छावाकः.। (सोम: सोम.प्रायश्.चित्त)
द्वौ.चेत्.द्वौ.प्रथमात्.द्वा.उत्तमात्.। (सोम: सोम.प्रायश्.चित्त)
अपि.वा.सर्वे.स्युः.स्तोम.निर्ह्रस्ताः.। (सोम: सोम.प्रायश्.चित्त)
ऊर्ध्वम्.स्तोत्रिय.अनुरूपेभ्यः.प्रथम.उत्तमांस्.तृचान्.शंसेयुः.। (सोम: सोम.प्रायश्.चित्त)
निर्ह्रास.एव.एकस्मिन्.। (सोम: सोम.प्रायश्.चित्त)
होतृ.वर्जम्.इत्य्.एके.। (सोम: सोम.प्रायश्.चित्त)
आश्विनाय.एक.स्तोत्रियो.अग्ने.विवस्वद्.उषस.इति.। (सोम: सोम.प्रायश्.चित्त)
तम्.पुरस्ताद्.अनुदैवतम्.स्वस्य.छन्दसो.यथा.स्तुतम्.शंसेत्.। (सोम: सोम.प्रायश्.चित्त)
त्रीणि.षष्टि.शतान्य्.आश्विनम्.। (सोम: सोम.प्रायश्.चित्त)
विमतानाम्.प्रसव.सम्निपाते.संसवे.अनन्तर्हितेषु.नद्या.वा.पर्वतेन.वा.। (सोम: सोम.प्रायश्.चित्त)
अप्य्.एके.अन्तर्हितेष्व्.अपि.। (सोम: सोम.प्रायश्.चित्त)
तथा.सति.संत्वरा.देवता.आवाहनात्.। (सोम: सोम.प्रायश्.चित्त)
कया.शुभा.इति.च.मरुत्वतीये.पुरस्तात्.सूक्तस्य.शंसेत्.। (सोम: सोम.प्रायश्.चित्त)
यो.जात.एव.इति.निष्केवल्ये.। (सोम: सोम.प्रायश्.चित्त)
मम.अग्ने.वर्च.इति.वैश्वदेव.सूक्तस्य.। (सोम: सोम.प्रायश्.चित्त)
अपि.वा.एतेष्व्.एव.निविदो.दध्याद्.उद्धरेद्.इतराणि.। (सोम: सोम.प्रायश्.चित्त)
स्थानम्.चेन्.निविदो.अतिहरेन्.मा.प्रगाम.इति.पुरस्तात्.सूक्तम्.शस्त्वा.अन्यस्मिंस्.तद्.दैवते.दध्यात्.। (सोम: सोम.प्रायश्.चित्त)
सोम.अतिरेके.स्तुत.शस्त्र.उपजनः.। (सोम: सोम.प्रायश्.चित्त)
प्रातः.सवने.अस्ति.सोमो.अयम्.सुतो.गौर्.धयति.मरुताम्.इति.स्तोत्रिय.अनुरूपौ.।.महान्.इन्द्रो.य.ओजसा.अतो.देवा.अवन्तु.न.इत्य्.ऐन्द्रीभिर्.वैष्णवीभिश्.च.स्तोमम्.अतिशस्य.ऐन्द्र्या.यजेत्.। (सोम: सोम.प्रायश्.चित्त)
वैष्णव्या.वा.। (सोम: सोम.प्रायश्.चित्त)
ऐन्द्रा.वैष्णव्या.इति.गाणगारिर्.दैवत.प्रधानत्वात्.। (सोम: सोम.प्रायश्.चित्त)
सम्.वाम्.कर्मणा.सम्.इषा.हिनोमि.इति.। (सोम: सोम.प्रायश्.चित्त)
माध्यंदिने.बण्.महान्.असि.सूर्य.उद्.उ.त्यद्.दर्शतम्.वपुर्.इति.प्रगाथौ.स्तोत्रिय.अनुरूपौ.।.महान्.इन्द्रो.नृवद्.विष्णोर्.नु.कम्.या.विश्वासाम्.जनितारा.मतीनाम्.इति.याज्या.। (सोम: सोम.प्रायश्.चित्त)
तृतीय.सवन.उत्तर.उत्तराम्.संस्थाम्.उपेयुर्.आ.अतिरात्रात्.। (सोम: सोम.प्रायश्.चित्त)
अतिरात्राच्.चेत्.प्र.तत्.ते.अद्य.शिपिविष्ट.नाम.प्र.तद्.विष्णुस्.तव.ते.वीर्येण.इति.स्तोत्रिय.अनुरूपौ.।.माध्यंदिनेन.शेषः.। (सोम: सोम.प्रायश्.चित्त)
त्वेषम्.इत्था.समरणम्.शिमीवतोर्.इति.वा.याज्या.। (सोम: सोम.प्रायश्.चित्त)
क्रीते.राजनि.नष्टे.दग्धे.वा.। (सोम: सोम.प्रायश्.चित्त)
अपिदधानि.सदो.हविर्.धानाय्.अनावृता.क्रियेरन्.। (सोम: सोम.प्रायश्.चित्त)
आवृता.वा.। (सोम: सोम.प्रायश्.चित्त)
अन्यम्.राजानम्.अभिषुणुयुः.। (सोम: सोम.प्रायश्.चित्त)
अनधिगमे.पूतीकान्.फाल्गुनानि.। (सोम: सोम.प्रायश्.चित्त)
अन्या.वा.ओषधयः.पूतीकैः.सह.। (सोम: सोम.प्रायश्.चित्त)
प्रायश्.चित्तम्.वा.हुत्वा.उत्तरम्.आरभेत.। (सोम: सोम.प्रायश्.चित्त)
सुत्या.सूक्तम्.एव.मन्येत.। (सोम: सोम.प्रायश्.चित्त)
प्रतिधुक्.प्रातः.सवने.। (सोम: सोम.प्रायश्.चित्त)
शृतम्.माध्यंदिने.। (सोम: सोम.प्रायश्.चित्त)
दधि.तृतीय.सवने.। (सोम: सोम.प्रायश्.चित्त)
श्रायन्तीयम्.ब्रह्म.साम.यदि.फाल्गुनानि.वारवन्तीयम्.यज्ञा.यज्ञीयस्य.स्थाने.। (सोम: सोम.प्रायश्.चित्त)
एक.दक्षिणम्.यज्ञम्.संस्थाप्य.उदवसाय.पुनर्.यजेत.। (सोम: सोम.प्रायश्.चित्त)
तस्मिन्.पूर्वस्य.दक्षिणा.दद्यात्.। (सोम: सोम.प्रायश्.चित्त)
सोम.अधिगमे.प्रकृत्या.। (सोम: सोम.प्रायश्.चित्त)
दीक्षितानाम्.उपतापे.परिहिते.प्रातर्.अनुवाके.अनुपाकृते.वा.पुष्टिपते.पुष्टिश्.चक्षुषे.चक्षुः.प्राणाय.प्राणम्.त्मने.त्मानम्.वाचे.वाचम्.अस्मै.पुनर्.देहि.स्वाहा.इति.ब्रह्म.आहुतिम्.हुत्वा.शीत.उष्णा.अपः.समानीय.एक.विंशतिम्.तासु.यवान्.कुश.पिञ्जूलांश्.च.अवधाय.ताभिर्.अद्भिर्.अब्.अर्थम्.कुर्वीत.। (सोम: सोम.प्रायश्.चित्त)
ताभिर्.एनम्.आप्लावयेज्.जीवानाम्.अस्थता.।.इमम्.अमुम्.जीवयत.जीविकानाम्.अस्थता.।.इमम्.अमुम्.जीवयत.सम्.जीवानाम्.अस्थता.।.इमम्.अमुम्.संजीवयत.संजीविकानाम्.अस्थता.।.इमम्.अमुम्.संजीवयत.इत्य्.ओषधि.सूक्तेन.च.। (सोम: सोम.प्रायश्.चित्त)
आप्लाव्य.अनुमृजेत्.। (सोम: सोम.प्रायश्.चित्त)
उपांश्व्.अन्तर्यामौ.ते.प्राण.अपानौ.पातामसा.उपांशु.सवनस्.ते.व्यानम्.पात्व्.असाव्.ऐन्द्र.वायवस्.ते.वाचम्.पात्व्.असौ.मैत्रावरुणस्.ते.चक्षुषी.पात्व्.असाव्.आश्विनस्.ते.श्रोत्रम्.पात्व्.असाव्.आग्रयणस्.ते.दक्ष.क्रतू.पात्व्.असा.उक्थस्.ते.अङ्गानि.पात्व्.असौ.ध्रुवस्.त.आयुः.पात्व्.असाव्.इति.। (सोम: सोम.प्रायश्.चित्त)
यथा.आसनम्.अनुपरिक्रमणम्.। (सोम: सोम.प्रायश्.चित्त)
त्रातारम्.इन्द्रम्.अवितारम्.इन्द्रम्.इति.तार्क्ष्य.आदिः.। (सोम: सोम.प्रायश्.चित्त)
यद्य्.अप्य्.अन्यद्.ऐकाहिकाद्.वैश्वदेवम्.स्वस्त्य्.आत्रेये.निविदम्.दध्यात्.। (सोम: सोम.प्रायश्.चित्त)
प्रकृत्या.अगदे.। (सोम: सोम.प्रायश्.चित्त)
संस्थिते.तीर्थेन.निर्हृत्य.अवभृथे.प्रेत.अलंकारान्.कुर्वन्ति.। (सोम: सोम.प्रायश्.चित्त)
केश.श्मश्रु.लोम.नखानि.वापयन्ति.। (सोम: सोम.प्रायश्.चित्त)
नलदेन.अनुलिम्पन्ति.। (सोम: सोम.प्रायश्.चित्त)
नलद.मालाम्.प्रतिमुञ्चन्ति.। (सोम: सोम.प्रायश्.चित्त)
निःपुरीषम्.एके.कृत्वा.पृषद्.आज्यम्.पूरयन्ति.। (सोम: सोम.प्रायश्.चित्त)
अहतस्य.वाससः.पाशतः.पाद.मात्रम्.अवच्छिद्य.प्रोर्णुवन्ति.प्रत्यग्.दशेन.आविः.पादम्.। (सोम: सोम.प्रायश्.चित्त)
अवच्छेदम्.अस्य.पुत्रा.अमा.कुर्वीरन्.। (सोम: सोम.प्रायश्.चित्त)
अग्नीन्.अस्य.समारोप्य.दक्षिणतो.बहिर्.वेदि.दहेयुः.। (सोम: सोम.प्रायश्.चित्त)
आहार्येण.अनाहित.अग्निम्.। (सोम: सोम.प्रायश्.चित्त)
पत्नीम्.च.। (सोम: सोम.प्रायश्.चित्त)
प्रत्येत्य.अहः.समापयेयुः.। (सोम: सोम.प्रायश्.चित्त)
प्रातर्.अनभ्यासम्.अनभिकिंकृतानि.शस्त्र.अनुवचन.अभिष्टवन.संस्तवनानि.। (सोम: सोम.प्रायश्.चित्त)
पुरा.ग्रह.ग्रहणात्.तीर्थेन.निष्क्रम्य.त्रिः.प्रसव्यम्.आयतनम्.परीत्य.पर्युपविशन्ति.। (सोम: सोम.प्रायश्.चित्त)
पश्चाद्.होता.। (सोम: सोम.प्रायश्.चित्त)
उत्तरो.अध्वर्युः.।.तस्य.पश्चात्.छन्दोगाः.। (सोम: सोम.प्रायश्.चित्त)
आ.अयम्.गौः.पृश्निर्.अक्रमीद्.इत्य्.उपांशु.स्तुवते.। (सोम: सोम.प्रायश्.चित्त)
स्तुते.होता.प्रसव्यम्.आयतनम्.परिव्रजन्.स्तोत्रियम्.अनुद्रवेद्.अप्रणुवन्.। (सोम: सोम.प्रायश्.चित्त)
यामीश्.च.। (सोम: सोम.प्रायश्.चित्त)
प्रेहि.प्रेहि.पथिभिः.पूर्वेभिर्.इति.पञ्चानाम्.तृतीयम्.उद्धरेत्.।.मा.एनम्.अग्ने.वि.दहो.माभि.शोच.इति.षट्.।.पूषा.त्वेतश्.च्यावयतु.प्र.विद्वान्.इति.चतस्र.उपसर्प.मातरम्.भूमिम्.एताम्.इति.चतस्रः.सोम.एकेभ्यः.। (सोम: सोम.प्रायश्.चित्त)
उरूणसाव्.असुतृपा.उदुम्बलाव्.इति.च.समाप्य.।.संचित्य.तीर्थेन.प्रपाद्य.यथा.आसनम्.आसादयेयुः.। (सोम: सोम.प्रायश्.चित्त)
भक्षेषु.प्राण.भक्षान्.भक्षयित्वा.दक्षिणे.मार्जालीये.निनयेयुः.।.दक्षिणस्याम्.वा.वेदि.श्रोण्याम्.। (सोम: सोम.प्रायश्.चित्त)
सप्तदशम्.अहर्.भवति.त्रिवृतः.पवमाना.रथन्तर.पृथो.अग्निष्टोमः.। (सोम: सोम.प्रायश्.चित्त)
संस्थिते.अवभृथम्.एके.गमयन्त्य्.एतस्य.एतद्.अहर्.अभिशब्दयन्तः.। (सोम: सोम.प्रायश्.चित्त)
निर्मन्थ्येन.वा.दग्ध्वा.निखाय.संवत्सराद्.एनम्.अग्निष्टोमेन.याजयेयुः.। (सोम: सोम.प्रायश्.चित्त)
नेदिष्ठिनम्.वा.दीक्षयेयुः.। (सोम: सोम.प्रायश्.चित्त)
अपि.वा.उत्थानम्.गृहपतौ.। (सोम: सोम.प्रायश्.चित्त)
उक्तः.स्तुत.शस्त्र.विकारः.। (सोम: सोम.प्रायश्.चित्त)
एक.अहेषु.यजमान.आसने.शयीत.। (सोम: सोम.प्रायश्.चित्त)
संस्थिते.अपायतीष्व्.अवभृथम्.गमयेयुर्.इत्य्.आलेखनः.। (सोम: सोम.प्रायश्.चित्त)
पूर्वेण.सदो.दहेयुर्.इत्य्.आश्मरथ्यः.। (सोम: सोम.प्रायश्.चित्त)
एष.एव.अवभृथः.। (सोम: सोम.प्रायश्.चित्त)
अग्निष्टोमो.अत्यग्निष्टोम.उक्थः.षोळशी.वाजपेयो.अतिरात्रो.अप्तोर्याम.इति.संस्थाः.। (सोम: यज्ञ.पुच्छ: हारियोजन)
तासाम्.याम्.उपयन्ति.तस्या.अन्ते.यज्ञ.पुच्छम्.। (सोम: यज्ञ.पुच्छ: हारियोजन)
अनुयाज.आद्य्.उक्तम्.पशुना.शम्यु.वाकात्.। (सोम: यज्ञ.पुच्छ: हारियोजन)
उत्तमस्.त्व्.इह.सूक्त.वाक.प्रैषः.। (सोम: यज्ञ.पुच्छ: हारियोजन)
अवीवृधत.इति.पुरोळाश.देवताम्.। (सोम: यज्ञ.पुच्छ: हारियोजन)
एके.यदि.सवनीयस्य.पशोः.पशु.पुरोळाशम्.कुर्युर्.अवीवृधेताम्.पुरोळाशैर्.इत्य्.एव.ब्रूयात्.। (सोम: यज्ञ.पुच्छ: हारियोजन)
सवनीयैर्.एव.इन्द्रो.वर्धते.पशु.पुरोळाशेन.पशु.देवता.। (सोम: यज्ञ.पुच्छ: हारियोजन)
ऊर्ध्वम्.शम्यु.वाकाद्.हारियोगनः.। (सोम: यज्ञ.पुच्छ: हारियोजन)
अपाः.सोमम्.अस्तम्.इन्द्र.प्रयाहि.धाना.सोमानाम्.इन्द्राद्.हि.च.पिब.च.युनज्मि.ते.ब्रह्मणा.केशिना.हरी.इति.। (सोम: यज्ञ.पुच्छ: हारियोजन)
इत्य्.आनुवाक्ये.अन्त्येष्व्.अहह्सु.। (सोम: यज्ञ.पुच्छ: हारियोजन)
तिष्ठा.सु.कम्.मघवन्.मा.परा.गा.अयम्.यज्ञो.देवया.अयम्.मियेध.इति.इतरेषु.। (सोम: यज्ञ.पुच्छ: हारियोजन)
परायाहि.मघवन्न्.आ.च.याहि.इति.वा.अनुवाक्या.उत्त्तरवत्स्व्.अहह्सु.। (सोम: यज्ञ.पुच्छ: हारियोजन)
अननुवषट्कृते.अतिप्रैषम्.मैत्रावरुण.आह.इह.मद.एव.मघवन्न्.इन्द्र.ते.अश्व.इति.। (सोम: यज्ञ.पुच्छ: हारियोजन)
अद्य.इत्य्.अतिरात्रे.। (सोम: यज्ञ.पुच्छ: हारियोजन)
अद्य.सुत्याम्.इति.च.। (सोम: यज्ञ.पुच्छ: हारियोजन)
तस्य.अन्तम्.श्रुत्वा.आग्नीध्रः.श्वः.सुत्याम्.प्राह.श्वः.सुत्याम्.वा.एषाम्.ब्राह्मणानाम्.ताम्.इन्द्रय.इन्द्र.अग्निभ्याम्.प्रब्रवीमि.मित्रा.वरुणाभ्याम्.वसुभ्यो.रुद्रेभ्य.आदित्येभ्यो.विश्वेभ्यो.देवेभ्यो.ब्राह्मणेभ्यः.सौम्येभ्यः.सोमपेभ्यो.ब्रह्मन्.वाचम्.यच्छ.इति.। (सोम: यज्ञ.पुच्छ: हारियोजन)
आहृतम्.उन्नेत्रा.द्रोण.कलशम्.इळाम्.इव.प्रतिगृह्य.उपहवम्.इष्ट्वा.अवेक्षेत.। (सोम: यज्ञ.पुच्छ)
हरिवतस्.ते.हारियोजनस्य.स्तुत.स्तोमस्य.शस्त्वा.उक्थस्य.इष्टयजुषो.यो.भक्षो.गो.सनिर्.अश्व.सनिस्.तस्य.उ.उपहूतस्य.उपहूतो.भक्षयामि.इति.प्राण.भक्षम्.भक्षयित्वा.। (सोम: यज्ञ.पुच्छ)
प्रति.प्रदाय.द्रोण.कलशम्.आत्मानम्.आप्याय्य.यथा.प्रसृप्तम्.विनिह्सृप्य.आग्नीध्रीये.विनिह्सृप्त.आहुती.जुह्वत्य्.अयम्.पीत.इन्दुर्.इन्द्रम्.मदेधाद्.अयम्.विप्रो.वाचम्.अर्चम्.नियच्छम्.। (सोम: यज्ञ.पुच्छ)
अयम्.कस्यचिद्.द्रुहताद्.अभीके.सोमो.राजा.न.सखायम्.रिषेधात्.स्वाहा.।.इदम्.राधो.अग्निना.दत्तम्.आगाद्.यशो.भर्गः.सह.ओजो.बलम्.च.। (सोम: यज्ञ.पुच्छ)
दीर्घ.आयुत्वाय.शत.शारदाय.प्रतिगृह्णामि.महते.वीर्याय.स्वाहा.इति.। (सोम: यज्ञ.पुच्छ)
आहवनीये.षट्.षट्.शकलान्य्.अभ्यादधति.देव.कृतस्य.एनसो.अवयजनम्.असि.स्वाहा.।.पितृ.कृतस्य.एनसो.अवयजनम्.असि.स्वाहा.। (सोम: यज्ञ.पुच्छ)
मनुष्य.कृतस्य.एनसो.अवयजनम्.असि.स्वाहा.।.अस्मत्.कृतस्य.एनसो.अवयजनम्.असि.स्वाहा.।.एनस.एनसो.अवयजनम्.असि.स्वाहा.।.यद्.वो.देवाश्.चकृम.जिह्वया.गुर्व्.इति.। (सोम: यज्ञ.पुच्छ)
द्रोण.कलशाद्.धाना.गृहीत्वा.अवेक्षेरन्न्.आपूर्या.स्थ.अमा.पूरयत.प्रजया.च.धनेन.च.।.इन्द्रस्य.कामदुघा.स्थ.कामान्.मे.धुङ्क्ष्वम्.प्रजाम्.च.पशूंश्.च.इति.। (सोम: यज्ञ.पुच्छ)
अवघ्राय.अन्तः.परिधि.देशे.निवपेयुः.। (सोम: यज्ञ.पुच्छ)
प्रत्येत्य.तीर्थ.देशे.अपाम्.पूर्णाश्.चमसास्.तान्.सव्य.आवृतो.व्रजन्ति.। (सोम: यज्ञ.पुच्छ)
हरित.तृणानि.विमृज्य.प्रतिस्वम्.चमसेभ्यस्.त्रिः.प्रसव्यम्.उदकैर्.आत्मनः.पर्युक्षन्ते.दक्षिणैः.पाणिभिः.। (सोम: यज्ञ.पुच्छ)
इतरैर्.वा.प्रदक्षिणम्.। (सोम: यज्ञ.पुच्छ)
स्वधा.पित्रे.स्वधा.पितामहाय.स्वधा.प्रपितामहाय.इति.। (सोम: यज्ञ.पुच्छ)
उक्तम्.जीव.मृतेभ्यः.। (सोम: यज्ञ.पुच्छ)
पाणींश्.चमसेष्व्.अवधाय.अप्सु.धूतस्य.देव.सोम.ते.मतिविदो.नृभिः.सुतस्य.स्तुत.स्तोमस्य.शस्त्वा.उक्थस्य.इष्ट.यजुषो.यो.भक्षो.गो.सनिर्.अश्व.सनिस्.तस्य.त.उपहूतस्य.उपहूतो.भक्षयामि.इति.प्राण.भक्षान्.भक्षयित्वा.। (सोम: यज्ञ.पुच्छ)
मा.अहम्.प्रजाम्.परासिचम्.इत्य्.एते.नाभ्य्.आत्मम्.निनीयाद्.अच्छायम्.वो.मरुतः.श्लोक.एत्व्.इत्य्.एतया.अभिंशन्ति.। (सोम: यज्ञ.पुच्छ)
दधिक्राव्णो.अकारिषम्.इत्य्.आग्नीध्रीये.दधि.द्रप्सान्.प्राश्य.सख्यानि.विसृजन्त.उभा.कवी.युवाना.सत्यादा.धर्मणस्पती.।.परिसत्यस्य.धर्मणा.विसख्यानि.सृजामह.इति.। (सोम: यज्ञ.पुच्छ)
पत्नी.सम्याजैश्.चरित्वा.अवभृतम्.व्रजन्ति.। (सोम: यज्ञ.पुच्छ: अवभृथ)
व्रजन्तः.साम्नो.निधनम्.उपयन्ति.। (सोम: यज्ञ.पुच्छ: अवभृथ)
अवभृथ.ऋष्ट्या.तिष्ठन्तश्.चरन्ति.। (सोम: यज्ञ.पुच्छ: अवभृथ)
प्रयाज.आद्य्.अनुयाज.अन्ता.न.अस्याम्.इळा.न.बर्हिष्मन्तौ.प्रयाज.अनुयाजाव्.अप्सुमन्तौ.। (सोम: यज्ञ.पुच्छ: अवभृथ)
गायत्रौ.। (सोम: यज्ञ.पुच्छ: अवभृथ)
वारुणम्.हविः.। (सोम: यज्ञ.पुच्छ: अवभृथ)
अव.ते.हेळो.वरुण.नमोभिर्.इति.द्वे.।.अग्नी.वरुणौ.स्विष्टकृद्.अर्थे.। (सोम: यज्ञ.पुच्छ: अवभृथ)
त्वम्.नो.अग्ने.वरुणस्य.विद्वान्.इति.द्वे.।.संस्थितायाम्.पादान्.उदक.अन्ते.अवदध्युर्.नमो.वरुणाय.अभिष्ठितो.वरुणस्य.वाश.इति.। (सोम: यज्ञ.पुच्छ: अवभृथ)
तत.आचामन्ति.भक्षस्य.अवभृथो.असि.भक्षितस्य.अवभृथो.असि.भक्षम्.कृतस्य.अवभृथो.असि.इति.। (सोम: यज्ञ.पुच्छ: अवभृथ)
प्रोथ्य.प्रथमेन.प्रष्ठीवन्ति.प्रगिरन्त्य्.उत्तराभ्याम्.। (सोम: यज्ञ.पुच्छ: अवभृथ)
तत.आचम्य.आप्लवन्त.आपो.अस्मान्.मातरः.शुन्धयन्त्व्.इदम्.आपः.प्रवहत.सुमित्र्या.न.आप.ओषधयः.सन्त्व्.इति.। (सोम: यज्ञ.पुच्छ: अवभृथ)
एतया.आवृता.अभ्युक्षेरन्न्.एव.अप्य्.अदीक्षिताः.। (सोम: यज्ञ.पुच्छ: अवभृथ)
उन्नेता.एनान्.उन्नयति.। (सोम: यज्ञ.पुच्छ: अवभृथ)
उद्.वयम्.तमसस्.परि.इत्य्.उदेत्य.। (सोम: यज्ञ.पुच्छ: अवभृथ)
समानम्.अत.ऊर्ध्वम्.हृदय.शूलेन.आ.संस्था.जपात्.। (सोम: यज्ञ.पुच्छ: अवभृथ)
संस्था.जपेन.उपतिष्ठन्ते.ये.ये.अपवृत्त.कर्माणः.। (सोम: यज्ञ.पुच्छ: अवभृथ)
गार्हपत्य.उदयनीयया.चरन्ति.। (सोम: यज्ञ.पुच्छ: उदयनीय.इष्टि)
सा.प्रायणीयया.उक्ता.। (सोम: यज्ञ.पुच्छ: उदयनीय.इष्टि)
पथ्या.स्वस्तिर्.इह.उत्तम.आज्य.हविषाम्.। (सोम: यज्ञ.पुच्छ: उदयनीय.इष्टि)
विपरीताश्.च.याज्या.अनुवाक्याः.। (सोम: यज्ञ.पुच्छ: उदयनीय.इष्टि)
ते.च.एव.कुर्युर्.ये.प्रायणीयाम्.। (सोम: यज्ञ.पुच्छ: उदयनीय.इष्टि)
प्रकृत्या.सम्याज्ये.। (सोम: यज्ञ.पुच्छ: उदयनीय.इष्टि)
संस्थितायाम्.मैत्रावरुण्य्.अनूबन्ध्या.। (सोम: यज्ञ.पुच्छ)
सदस्य्.एके.। (सोम: यज्ञ.पुच्छ)
उत्तर.वेद्याम्.एके.। (सोम: यज्ञ.पुच्छ)
हुतायाम्.वपायाम्.यद्य्.एकादशिन्य्.अग्रतः.कृत्वा.अग्नीषोमीयेण.संचरेण.व्रजित्वा.गार्हपत्ये.त्वष्ट्रेण.पशुना.चरन्ति.। (सोम: यज्ञ.पुच्छ)
अञ्जन.आदि.पर्यग्निकृत्वा.उत्सृजन्त्य्.अपुनर्.आयनाय.। (सोम: यज्ञ.पुच्छ)
यदि.त्व्.अध्वर्यव.आज्येन.समाप्नुयुस्.तथैव.होता.कुर्यात्.। (सोम: यज्ञ.पुच्छ)
सम्प्रैषवद्.आदेशान्.। (सोम: यज्ञ.पुच्छ)
पशुवन्.निपातान्.। (सोम: यज्ञ.पुच्छ)
यद्य्.अनूबन्ध्ये.पशु.पुरोळाशम्.अनुदेविका.हवींषि.निर्वपेयुर्.धाता.अनुमती.राका.सिनीवाली.कुहूः.। (सोम: यज्ञ.पुच्छ)
धाता.ददातु.दाशुषे.प्राचीम्.जीवातुम्.अक्षितम्.।.वयम्.देवस्य.धीमहि.सुमतिम्.वाजिनीवतः.।.धाता.प्रजानाम्.उत.राय.ईशे.धाता.इदम्.विश्वम्.भुवनम्.जजान.।.धाता.कृषिर्.अनिमिषा.अभिचष्टे.धात्र.इद्धव्यम्.घृतवज्.जुहोत.इति.। (सोम: यज्ञ.पुच्छ)
देवीनाम्.चेत्.सूर्यो.द्यौर्.उषा.गौः.पृथिवी.। (सोम: यज्ञ.पुच्छ)
स्मत्.पुरन्धि.न.आ.गाहि.इति.द्वे.।.आद्याम्.तनोषि.रश्मिभिर्.आवहन्ती.पोष्या.वर्याणि.न.ता.अर्वा.रेणुककाटो.अश्नुते.न.तान्.अशन्ति.न.दभाति.तस्करो.बऌ.इत्था.पर्वतानाम्.दृळ्हा.चिद्.आ.वनस्पतीन्.। (सोम: यज्ञ.पुच्छ)
पश्व्.अलाभे.पयस्या.मैत्रावरुण्य्.अनूबन्ध्या.स्थाने.। (सोम: यज्ञ.पुच्छ)
आज्य.भाग.प्रभृति.वाजिन.अन्ता.। (सोम: यज्ञ.पुच्छ)
कर्मिणो.वाजिनम्.भक्षयेयुः.। (सोम: यज्ञ.पुच्छ)
सर्वे.तु.दीक्षिताः.। (सोम: यज्ञ.पुच्छ)
सर्वे.तु.दीक्षित.उत्थिताः.पृथग्.अग्नीन्.समारोप्य.उदग्.देव.यजनान्.मथित्वा.उदवसानीयया.यजन्ते.। (सोम: यज्ञ.पुच्छ)
पौनराधेयिक्य्.अविकृता.अविकृता.। (सोम: यज्ञ.पुच्छ)
मूल पाठ: Āśvalāyanaśrautasūtra · Edition: Ramanarayana Vidyaratna, Calcutta [1864-] 1874 (Bibliotheca Indica; 49) · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0