भाषा

ENहिગુ
ग्रंथ पाठ

अर्थशास्त्र · अध्याय 02.22

02.22.01

बाह्यम् आभ्यन्तरं च^आतिथ्यम् ॥

02.22.02

निष्क्राम्यं प्रवेश्यं च शुल्कम् ॥

02.22.03

प्रवेश्यानां मूल्य.पञ्च.भागः ॥

02.22.04

पुष्प.फल.शाक.मूल.कन्द.वाल्लिक्य.बीज.शुष्क.मत्स्य.मांसानां षड्.भागं गृह्णीयात् ॥

02.22.05

शङ्ख.वज्र.मणि.मुक्ता.प्रवाल.हाराणां तज्.जात.पुरुषैः कारयेत् कृत.कर्म.प्रमाण.काल.वेतन.फल.निष्पत्तिभिः ॥

02.22.06

क्षौम.दुकूल.क्रिमि.तान.कङ्कट.हरि.ताल.मनः.शिला.अञ्जन.हिङ्गुलुक.लोह.वर्ण.धातूनां चन्दन.अगुरु.कटुक.किण्व.अवराणां चर्म.दन्त.आस्तरण.प्रावरण.क्रिमि.जातानाम् आज.एडकस्य च दश.भागः पञ्च.दश.भागो वा ॥

02.22.07

वस्त्र.चतुष्पद.द्विपद.सूत्र.कार्पास.गन्ध.भैषज्य.काष्ठ.वेणु.वल्कल.चर्म.मृद्भ.अण्डानां धान्य.स्नेह.क्षार.लवण.मद्य.पक्वान् नादीनां च विंशति.भागः पञ्च.विंशति.भागो वा॥

02.22.13

क्षेत्रेभ्यः सर्व.सस्य.आदाने त्रि.पञ्चाशत्.पणः ॥

02.22.14

पणो^अध्यर्ध.पणश् च सीता.अत्ययः ॥
कz02.22.15अब्। अतो नव.पुराणां देश.जाति.चरित्रतः ।
कz02.22.15च्द्। पण्यानां स्थापयेच्^शुक्लम् अत्ययं च^अपकारतः ॥ए
(षुपेरिन्तेन्देन्त् ओf यर्न्स् (अन्द् तेष्तिलेस्))

मूल पाठ: Arthaśāstra · Edition: R. P. Kangle's edition: The Kauṭilīya Arthaśāstra, A critical Edtion with a Glossary, Second edition, University of Bombay 1969. · Data entry Muneo Tokunaga · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc