भाषा

ENहिગુ
ग्रंथ पाठ

आंजनेय द्वादशनामस्तोत्रम् · अध्याय 1

1

॥ श्रीआंजनेय द्वादशनामस्तोत्रम् ॥
हनुमानंजनासूनुः वायुपुत्रो महाबलः ।
रामेष्टः फल्गुणसखः पिंगाक्षोऽमितविक्रमः

2

उदधिक्रमणश्चैव सीताशोकविनाशकः ।
लक्ष्मण प्राणदाताच दशग्रीवस्य दर्पहा

द्वादशैतानि नामानि कपींद्रस्य महात्मनः ।
स्वापकाले पठेन्नित्यं यात्राकाले विशेषतः ।
तस्यमृत्यु भयंनास्ति सर्वत्र विजयी भवेत् ॥

मूल पाठ: āṃjaneya dvādaśanāmastotram · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc