भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 333

333.001

:ए इत्य् आग्नेये महापुराणे अर्धसमनिरूपणं नाम
द्वात्रिंशदधिकत्रिशततमो ऽध्यायः
% छप्तेर् {333}
:श् अथ त्रयस्त्रिंशदधिकत्रिशततमो ऽध्यायः
समवृत्तनिरूपणं
अग्निर् उवाच
यतिर्विच्छेद इत्य् उक्तस्तत्तन्मध्यान्तयौ गणौ ।अप्_333.001अब्।
यौसः कुमारलालिता तौ गौ चित्रपदा स्मृता

333.002

विद्युन्माला मममागणैर् भूतगणैर् भवेत् ।अप्_333.002अब्।
माणवका क्रीडितकं वनौ हलमुखी वसः

333.003

स्याद्भुजङ्गशिशुसूतानौ मेहनं मरुतं ननौ ।अप्_333.003अब्।
भवेच्छुद्धविराड्वृत्तं समौ जगौ

333.004

:प् 192
पणवोमलयोमः(1) स्याज्जौ गौ मयूरसारिणी ।अप्_333.004अब्।
सत्तामभसगा वृत्तं भजताद्युपरिस्थिता

333.005

रुक्मवती भससगाविन्द्रावज्रा तजौ गजौ ।अप्_333.005अब्।
जतौ जगौ गूपपूर्वावाद्यन्ताद्युपजातयः

333.006

दोधकं भगभागौ स्यात् शालिनी मतभागगौ ।अप्_333.006अब्।
यतिः समुद्रा ऋषयः वातोर्मी मभतागगौ

333.007

चतुःस्वरा स्याद्भ्रमरी विलासिता मभौनलौ ।अप्_333.007अब्।
समुद्रा अथ ऋषयो वनौ लौगौ रथोद्धता

333.008

सामताधनभागोगोवृत्ताननसमाश् च सः ।अप्_333.008अब्।
श्येनी वजवनागः स्याद्रम्या नपरगागगः

333.009

जगती वंशस्था वृत्तं जतौ जावथ तौ जवौ ।अप्_333.009अब्।
इन्द्रवंशा तोटकं सैश् चतुर्भिः प्रतिपादतः

333.010

भवेद्द्रुतविलम्बिता नभौ भवावथौ नलौ ।अप्_333.010अब्।
स्यौ श्रीपुठो वसुवेदा जलोगतिजलौ जमौ

333.011

जसौ वसर्ववश्चाथ ततं ननमराः स्मृतं ।अप्_333.011अब्।
कुसुमविचित्रा न्यौ द्यौ नौ नौ रौ स्याच्चलाम्बिका(2)

333.012

भुजङ्गप्रयातं थैः स्याच्चतुर्भिः स्रग्विनीभवैः ।अप्_333.012अब्।
प्रमिताक्षरा गजौ सौ कान्तोत्पीडा मतौ समौ(3)

333.013

वैश्वदेवी(4) ममयायाः पञ्चाङ्गा नवमालिनी ।अप्_333.013अब्।
:न्
1 मलघाग इति ख..
2 चरणात्मिका इति ख.. । चञ्चलाम्बिका इति ट..
3 ममाविति ख..
4 विश्वदेवीति ख
:प् 193
नजौ भयौ प्रतिपादं गणा यदि जगत्यपि

333.014

प्रहर्षणी मवजवा गोपतिर्वह्निदिक्षु च ।अप्_333.014अब्।
रुचिरा जभसजगा च्छिन्ना वेदैर् ग्रहैः स्मृता

333.015

मत्तमयूरं मतया सगौ वेदरहे यतिः ।अप्_333.015अब्।
गौरीनलनसागः स्यादसम्बाधा नतौ नगौ

333.016

गोग इन्द्रियनवकौ ननौ वसनगाः स्वराः ।अप्_333.016अब्।
स्वराश्चापराजिता स्यान्ननभाननगाः स्वराः

333.017

द्विःप्रहरणकलिता(1) वसन्ततिलका नभौ ।अप्_333.017अब्।
जौ गौ सिंहोन्नता सा स्यान्मुनेरुद्धर्षणी च सा

333.018

चन्द्रावर्ता ननौ सोमावर्तर्तुनवकः स्मृतः ।अप्_333.018अब्।
मणिगुणनिकरा सौ मालिनौ नौ मयौ ययः

333.019

यतिर्वसुस्वरा भौ वौ नतलमित्रसग्रहाः(2) ।अप्_333.019अब्।
ऋषभगजविलासितं ज्ञेया शिखरिणी जगौ

333.020

रसभालभृगुरुद्राः पृथ्वीजसजसा जनौ ।अप्_333.020अब्।
गोवसुग्रहविच्छिन्ना पिङ्गलेनेरिता पुरा

333.021

वंशपत्रपतितं स्याद् भवना भौ नगौ सदिक् ।अप्_333.021अब्।
हरिणी नसमारः सो नगौ रसचतुःस्वराः

333.022

मन्दाक्रान्ता नभनतं तगौगछिरसस्वराः ।अप्_333.022अब्।
कुसुमितलता वेल्लिता यययाः शराः

333.023

रथाः स्वराः प्रतिरथससजाः सतताश् च गः ।अप्_333.023अब्।
शार्दूलविक्रीडितं स्यादादित्यमुनयो यतिः

333.024

:न्
1 द्विःप्रहरणञ्चलितेति ख..
2 लननागात्रसग्रहा इति ञ..
:प् 194
कृतिः सुवदना मोरो भनया भनगाः सुराः ।अप्_333.024अब्।
यतिर्मुनिरसाश्चाथ इति वृत्तं क्रमात् स्मृतम्

333.025

स्नग्धरा मरतानोमोयपौ त्रिःसप्तका यतिः ।अप्_333.025अब्।
समुद्रकं भरजानोवनगो दशभास्कराः

333.026

अश्वललितं नजभा जभजा भनमीशतः ।अप्_333.026अब्।
मत्ताक्रीडा ममनना नौनग्नौ गोष्टमातिथिः

333.027

तन्वी भनतसाभोभो लयो वाणसुरार्ककाः ।अप्_333.027अब्।
क्रौञ्चपदा भमतता नौ नौ वाणशराष्टतः

333.028

भुजङ्गविजृम्भितं ममतना ननवासनौ ।अप्_333.028अब्।
गोष्टेशमुनिभिश्छेदो ह्य् उपहाराख्यमीदृअशम्

333.029

मननानतानः सो गगौ ग्रहरसो रसात्(1) ।अप्_333.029अब्।
नौ सप्तरोदण्डदः स्याच्चण्डवृष्टिप्रघातकं(2)

333.030

रेफवृद्ध्या णणवा स्युर्व्यालजीमूतमुख्यकाः ।अप्_333.030अब्।
शेषे वै प्रचिता ज्ञेया गाथाप्रस्तार उच्यते

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc