अच्युताष्टकम् · अध्याय 1
अच्युतं केशवं रामनारायणं
कृष्णदामोदरं वासुदेवं हरिम् ॥
श्रीधरं माधवं गोपिकावल्लभं
जानकीनायकं रामचन्द्रं भजे
अच्युतं केशवं सत्यभामाधवं
माधवं श्रीधरं राधिकाराधितम् ॥
इन्दिरामन्दिरं चेतसा सुन्दरं
देवकीनन्दनं नन्दनं संदधे
विष्णवे जिष्णवे शङ्खिने चक्रिणे
रुक्मिनीरागिणे जानकीजानये ॥
वल्लवीवल्लभायाऽर्चितायात्मने
कंसविध्वंसिने वंशिने ते नमः
कृष्ण गोविन्द हे राम नारायण
श्रीपते वासुदेवाजित श्रीनिधे ॥
अच्युतानन्त हे माधवाधोक्षज
द्वारकानायक द्रौपदीरक्षक
राक्षसक्षोभितः सीतया शोभितो
दण्डकारण्यभूपुण्यताकारणः ॥
लक्ष्मणेनान्वितो वानरैः सेवितोऽ
गस्त्यसंपूजितो राघवः पातु माम्
धेनुकारिष्टकोऽनिष्टकृद्द्वेषिणां
केशिहा कंसहृद्वंशिकावादकः ॥
पूतनाकोपकः सूरजाखेलनो
बालगोपालकः पातु माम् सर्वदा
विद्युदुद्धयोतवानप्रस्फुरद्वाससं
प्रावृडम्भोदवत्प्रोल्लसद्विग्रहम् ॥
वन्यया मालया शोभितोरःस्थलं
लोहितांघ्रिद्वयं वारिजाक्षं भजे
कुञ्चितैः कुन्तलैर्भ्राजमानाननं
रत्नमौलिं लसत् कुण्डलं गण्डयोः ॥
हारकेयूरकं कङ्कणप्रोज्ज्वलं
किङ्किणीमञ्जुलं श्यामलं तं भजे
अच्युतस्याष्टकं यः पठेदिष्टदं प्रेमतः प्रत्यहं पूरुषः सस्पृहम् ।
वृत्ततः सुंदरं कर्तृ विश्वंभरं तस्य वश्यो हरिर्जायते सत्वरम्
॥ इति श्रीशंकराचार्यविरचितमच्युताष्टकं संपूर्णम् ॥
मूल पाठ: acyutāṣṭakam · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0